हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Ayodhya Kanda Sarga 79 – अयोध्याकाण्ड एकोनाशीतितमः सर्गः (७९)
॥ सचिवप्रार्थनाप्रतिषेधः ॥
ततः प्रभातसमये दिवसे च चतुर्दशे ।
समेत्य राजकर्तारः भरतं वाक्यमब्रुवन् ॥ १ ॥
गतर्दशरथः स्वर्गं यो नो गुरुतरः गुरुः ।
रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ॥ २ ॥
त्वमद्य भव नो राजा राजपुत्र महायशः ।
सङ्गत्या नापराध्नोति राज्यमेतदनायकम् ॥ ३ ॥
आभिषेचनिकं सर्वमिदमादाय राघव ।
प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ॥ ४ ॥
राज्यं गृहाण भरत पितृपैतामहं महत् ।
अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ॥ ५ ॥
[* एवमुक्तः शुभं वाक्यं द्युतिमान् सत्य वाक्छुचिः ।*]
आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् ।
भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः ॥ ६ ॥
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः ।
नैवं भवन्तः मां वक्तुमर्हन्ति कुशला जनाः ॥ ७ ॥
रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः ।
अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च ॥ ८ ॥
युज्यतां महती सेना चतुरङ्ग महाबला ।
आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ॥ ९ ॥
आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् ।
पुरः कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥ १० ॥
तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ।
आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥ ११ ॥
न सकामां करिष्यामि स्वामिमां मातृगन्धिनीम् ।
वने वत्स्याम्यहं दुर्गे रामः राजा भविष्यति ॥ १२ ॥
क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च ।
रक्षिणश्चानुसम्यान्तु पथि दुर्ग विचारकाः ॥ १३ ॥
एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम् ।
प्रत्युवाच जनस्सर्वः श्रीमद्वाक्यमनुत्तमम् ॥ १४ ॥
एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम् ।
यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि ॥ १५ ॥
अनुत्तमं तद्वचनं नृपात्मज
प्रभाषितं संश्रवणे निशम्य च ।
प्रहर्षजास्तं प्रति बाष्पबिन्दवो
निपेतुरार्यानननेत्र सम्भवाः ॥ १६ ॥
ऊचुस्ते वचनमिदं निशम्य हृष्टाः
सामात्याः सपरिषदो वियातशोकाः ।
पन्थानं नरवर भक्तिमान् जनश्च
व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः ॥ १७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥
www.sanatanadharm.com